दर्शन पाठ(दर्शनं देवदेवस्य) || Darshan Paath Sanskrit
दर्शनं देवदेवस्य दर्शनं पापनाशनम् दर्शनं स्वर्गसोपानं दर्शनं मोक्षसाधनम् ||१|| दर्शनेन जिनेन्द्राणां साधूनां वन्दनेन च। न चिरं तिष्ठते पापं, छिद्रहस्ते यथोदकम् ॥२॥ वीतराग मुखं दृष्ट्वा, पद्म-राग- समप्रभम्। जन्म-जन्म कृतं पापं, दर्शनेन विनश्यति ||३|| दर्शनं जिनसूर्यस्य, संसारध्वान्त- नाशनम्। बोधनं चित्तपद्मस्य, समस्तार्थ- प्रकाशनम्…
