लघु चैत्यभक्ति (वर्षेषु वर्षान्तरपर्वतेषु)

Acharya Shri Vidhya Sagar Ji Maharaj

इन्द्रवज्रा वर्षेषु वर्षान्तरपर्वतेषु, नन्दीश्वरे यानि च मन्दरेषु । यावन्ति चैत्यायतनानि लोके, सर्वाणि वन्दे जिनपुङ्गवानाम् ॥ मालिनी अवनितल-गतानां कृत्रिमाकृत्रिमाणां, वन-भवन-गतानां दिव्य-वैमानिकानाम्। इह मनुज – कृतानां देवराजार्चितानां जिनवर-निलयानां भावतोऽहं स्मरामि॥ शार्दूलविक्रीडितम् जम्बूधातकि- पुष्करार्ध-वसुधा क्षेत्रत्रये ये भवा – श्चन्द्राम्भोजशिखण्डिकण्ठकनक प्रावृड्घनाभा जिनाः। सम्यग्ज्ञान – चरित्र – लक्षणधरा, ‘दग्धाष्टकर्मेन्धनाः, भूतानागत-वर्तमानसमये, तेभ्यो जिनेभ्यो नमः॥ स्रग्धरा श्रीमन्मेरौ कुलाद्रौ, रजतगिरिवरे, शाल्मलौ जम्बुवृक्षे वक्षारे … Read more