सिद्धपूजा (भावाष्टकम्) || SiddhaPuja
निज-मनो-मणि-भाजनभारया शम-रसैक-सुधारसधारया । सकल-बोध-कला-रमणीयकं सहज - सिद्धमहं परिपूजये ॥ ॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने जन्मजरामृत्युविनाशनाय जलं निर्व० सहज-कर्म-कलङ्क-विनाशनै-रमल भाव- सुवासित-चन्दनैः । अनुपमान-गुणावलि-नायकं सहज-सिद्धमहं परिपूजये ॥ ॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने…
