श्रीमन्नतामरशिरस्तट-रत्न-दीप्ति-तोयावभासि-चरणाम्बुज-युग्ममीशम्
अर्हन्तमुन्नत-पद-प्रदमाभिनम्य, तन्मूर्तिषूद्यदभिषेक-विधिं करिष्ये ॥१॥
अथ पौर्वाह्णिकदेव-वन्दनायां पूर्वाचार्यानुक्रमेण सकलकर्मक्षयार्थं भावपूजा- वन्दनास्तव-समेतं श्रीपञ्चगुरुभक्ति-पुरस्सरं कायोत्सर्गं करोम्यहम्
( यह पढ़कर नौ बार णमोकार मंत्र पढ़ें)
याः कृत्रिमास्तदितराः प्रतिमा जिनस्य, संस्नापयन्ति पुरुहूत-मुखादयस्ताः ।
सद्भाव-लब्धि समयादि-निमित्तयोगात्, तत्रैवमुज्ज्वलधिया कुसुमं क्षिपामि ||२||
(यह पढ़कर थाली में पुष्पाञ्जलि छोड़कर अभिषेक की प्रतिज्ञा करें।)
श्रीपीठक्लृप्ते विशदाक्षतौघैः, श्रीप्रस्तरे पूर्णशशाङ्क कल्पे ।
श्रीवर्तके चन्द्रमसीति वार्तां सत्यापयन्तीं श्रियमालिखामि ||३||
ॐ ह्रीं अर्ह श्रीकारलेखनं करोमि ।
कनकाद्रि-निभं कम्रं पावनं पुण्यकारणम् ।
स्थापयामि परं पीठं जिनस्नपनाय भक्तितः ॥|४||
ॐ ह्रीं श्रीपीठस्थापनं करोमि ।
( यह पढ़कर अभिषेक की थाली में सिंहासन स्थापित करें )
भृङ्गार- चामर- सुदर्पण -पीठ- कुम्भ-ताल-ध्वजातप- निवारक – भूषिताग्रे
वर्धस्व-नन्द-जय-पाठपदावलीभिः, सिंहासने जिन ! भवन्तमहं श्रयामि ||५||
वृषभादि-सुवीरान्तान् जन्माप्तौ जिष्णुचर्चितान् ।
स्थापयाम्यभिषेकाय भक्त्या पीठे महोत्सवम् ॥ ६॥
ॐ ह्रीं श्रीधर्मतीर्थाधिनाथ! भगवन्निह पाण्डुक-शिलापीठे सिंहासने तिष्ठ तिष्ठ ।
(यह पढ़कर प्रतिमाजी स्थापित करना)
श्रीतीर्थकृत्स्नपन-वर्य-विधौ सुरेन्द्रः क्षीराब्धि-वारिभि-रपूरय-दुद्ध-कुम्भान् ।
तांस्तादृशानिव विभाव्य यथार्हणीयान्, संस्थापये कुसुम-चन्दन-भूषिताग्रान् ||७||
शातकुम्भीय- कुम्भौघान् क्षीराब्धेस्तोय-पूरितान्
स्थापयामि जिनस्नान-चन्दनादि-सुचर्चितान् ॥८॥
ॐ ह्रीं चतुः कोणेषु चतुः कलशस्थापनं करोमि ।
( यह पढ़कर चार कोनों में चार कलश स्थापित करें )
आनन्द-निर्भर- सुर-प्रमदादि- गानैर्वादित्र – पूर- जय – शब्द-कलप्रशस्तैः ।
उद्गीयमान-जगतीपति-कीर्तिमेनां, पीठस्थलीं वसु-विधार्चनयोल्लसामि ॥९॥
ॐ ह्रीं स्नपनपीठस्थिताय जिनायार्धं निर्वपामीति स्वाहा ।
कर्म-प्रबन्ध-निगडैरपि हीनताप्तं ज्ञात्वापि भक्तिवशतः परमादि-देवम्
त्वां स्वीयकल्मषगणोन्मथनाय देव! शुद्धोदकैरभिनयामि नयार्थतत्त्वम् ॥१०॥
ॐ ह्रीं श्रीं क्लीं ऐं अर्ह वं मं हं सं तं पं वं वं मं मं हं हं सं सं तं तं पं पं झं झं इवीं इवीं क्ष्वीं थवीं द्रां द्रां व्रीं श्रीं द्रावय द्रावय नमोऽर्हते भगवते श्रीमते पवित्रतरजलेन जिनमभिषेचयामीति स्वाहा ।
तीर्थोत्तम-भवैनरैः, क्षीर-वारिधि-रूपकैः ।
स्नपयामि सुजन्माप्तान्, जिनान् सर्वार्थसिद्धिदान् ॥११॥
ॐ ह्रीं श्रीवृषभाविवीरान्तान् जलेन स्नपयामीति स्वाहा ।
(यह पढ़ते हुये कलश से धारा प्रतिमाजी पर छोड़ें)
सकलभुवननाथं तं जिनेन्द्रं सुरेन्द्रै-
रभिषवविधिमाप्तं स्नातकं स्नापयामः ।
यदभिषवन-वारां बिन्दुरेकोऽपि नृणां,
प्रभवति हि विधातुं भुक्तिसन्मुक्तिलक्ष्मीम् ॥१२॥
ॐ ह्रीं श्रीं क्लीं ऐं अर्ह वं मं हं सं तं पं वं वं मं मं हं हं सं सं तं तं पं पं झं झं इवीं इवीं क्ष्वीं क्ष्वीं द्रां द्रां द्रीं द्रीं हं झं क्ष्वीं क्ष्वीं हं सः झं वं ह्रः यः सः क्षां क्षीं क्षं क्ष क्ष क्ष क्ष क्षं क्षः क्ष्वीं ह्रां ह्रीं हूं हैं हैं हों ह्रौं ह्रीं ह्रः द्रां द्रीं नमोऽर्हते भगवते श्रीमते ठः ठः इति बृहच्छान्ति- मन्त्रेणाभिषेकं करोमि |
(यह पढ़कर चारों कोनों में रखे हुए चार कलशों से अभिषेक करें)
पानीय-चन्दन-सदक्षत-पुष्प- पुञ्ज – नैवेद्य दीपक सुधूप-फलव्रजेन
कर्माष्टक -क्रथन-वीरमनन्त-शक्तिं, सम्पूजयामि महसा महसां निधानम् ॥१३॥
ॐ ह्रीं अभिषेकान्ते वृषभादिवीरान्तेभ्योऽर्घं निर्वपामीति स्वाहा ।
हे तीर्थपा निज-यशो-धवली – कृताशाः
सिद्धौषधाश्च भव-दुःखमहागदानाम् ।
सद्भव्यहृज्जनित-पङ्क – कबन्ध – कल्पाः,
यूयं जिनाः सतत-शान्तिकरा भवन्तु ॥१४॥
(यह पढ़कर शान्ति के लिये पुष्पाञ्जलि छोड़ें)
नत्वा मुहु-र्निज-करै-रमृतोपमेयै:, स्वच्छै-र्जिनेन्द्र तव चन्द्र-करावदातै: |
शुद्धांशुकेन विमलेन नितान्त-रम्ये, देहे स्थितान् जल कणान् परिमार्जयामि ||१५||
ओं ह्रीं अमलांशुकेन जिनबिम्ब-मार्जनं करोमि।
स्नानं विधाय भवतोष्ट-सहस्र-नाम्ना-मुच्चारणेन मनसो वचसो विशुद्धिम् |
जिघृक्षु-रिष्टिमिनतेष्ट-तयीं विधातुं, सिंहासने विधि-वदत्र निवेशयामि ||१६
ॐ ह्रीं श्रीसिंहासनपीठे जिनबिम्बं स्थापयामि ।
जलगन्धाक्षतैः पुष्पैश्चरुदीपसुधूपकैः ।
फलैरधैर्जिनमर्चेज्जन्म – दुःखापहानये ||१७||
ॐ ह्रीं श्रीपीठस्थितजिनाय अर्घं निर्वपामीति स्वाहा ।
नत्वा परीत्य निजनेत्रललाटयोश्च,
व्यातुक्षणेन हरतादघ-सञ्चयं मे
शुद्धोदकं जिनपते! तव पादयोगाद्,
भूयाद् भवातपहरं धृतमादरेण ॥१८॥
मुक्ति – श्री – वनिताकरोदकमिदं पुण्याङ्करोत्पादकं,
नागेन्द्र – त्रिदशेन्द्र – चक्रपदवी – राज्याभिषेकोदकम् ।
सम्यग्ज्ञान – चरित्र – दर्शनलता – संवृद्धि – सम्पादकं,
कीर्तिश्रीजयसाधकं तव जिन! स्नानस्य गन्धोदकम् ॥१९॥
ॐ ह्रीं श्रीजिनगन्धोदकं स्वललाटे धारयामि ।
इमे नेत्रे जाते सुकृतजलसिक्ते सफलिते
ममेदं मानुष्यं कृतिजनगणादेयमभवत् ।
मदीयाद् भल्लाटादशुभतर-कर्माटनमभूत्
सदेदृक् पुण्यार्हन् मम भवतु ते पूजनविधौ ॥२०॥
(यह पढ़कर पुष्पाञ्जलि छोड़ें )||
Note
Jinvani.in मे दिए गए सभी स्तोत्र, पुजाये और आरती जिनवाणी संग्रह के द्वारा लिखी गई है, यदि आप किसी प्रकार की त्रुटि या सुझाव देना चाहते है तो हमे Comment कर बता सकते है या फिर Swarn1508@gmail.com पर eMail के जरिए भी बता सकते है।