Jinvani icon

परमर्षि स्वस्ति मंगल पाठ
(प्रत्येक श्लोक के बाद पुष्प क्षेपण करें )
(उपजातिच्छन्दः)
नित्याप्रकम्पाद्भुतकेवलौघाः, स्फुरन्मनःपर्ययशुद्धबोधाः
दिव्यावधि-ज्ञानबलप्रबोधाः, स्वस्ति क्रियासुः परमर्षयो नः॥१॥
कोष्ठस्थ-धान्योपम-मेकबीजं, संभिध-संश्रोतृपदानुसारि ।
चतुर्विधं बुद्धिबलं दधानाः, स्वस्ति क्रियासुः परमर्षयो नः ||२||
संस्पर्शनं संश्रवणं च दूरादास्वादन घ्राण-विलोकनानि ।
दिव्यान्मतिज्ञानबलाब्रहन्तः, स्वस्ति क्रियासुः परमर्षयो नः ||३||
प्रज्ञाप्रधानाः श्रमणाः समृद्धाः, प्रत्येक-बुद्धाः दशसर्वपूर्व: ।
प्रवादिनोऽष्टाङ्गनिमित्तविज्ञाः, स्वस्ति क्रियासुः परमर्षयो नः ||४||
जङ्घानलश्रेणि- फलाम्बु-तन्तु प्रसून बीजाङ्कुर – चारणाह्वाः ।
नभोऽङ्गणस्वैरविहारिणश्च, स्वस्ति क्रियासुः परमर्षयो नः ||५||
अणिनि दक्षाः कुशला महिम्नि, लघिम्नि शक्ताः कृतिनो गरिणि ।
मनो-वपु-र्वाग्बलिनश्च नित्यं, स्वस्ति क्रियासुः परमर्षयो नः ||६||
सकामरूपित्ववशित्वमैश्यं, प्राकाम्यमन्तर्द्धिमथाप्तिमाप्ताः ।
तथाऽप्रतीघातगुणप्रधानाः, स्वस्ति क्रियासुः परमर्षयो नः ||७||
दीप्तं च तप्तं च महत्तथोग्रं, घोरं तपो घोर-पराक्रमस्थाः ।
ब्रह्मापरं घोरगुणं चरन्तः, स्वस्ति क्रियासुः परमर्षयो नः ||८||
आमर्ष- सर्वोषधयस्तथाशीर्विषाविषा दृष्टिविषाविषाश्च ।
सखेल-विड्जल्लमलौषधीशाः, स्वस्ति क्रियासुः परमर्षयो नः ||९||
क्षीरं स्रवन्तोऽत्र घृतं स्रवन्तो, मधुस्रवन्तोऽप्यमृतं स्रवन्तः ।
अक्षीणसंवासमहानसाश्च, स्वस्ति क्रियासुः परमर्षयो नः ||१०||

इति परमर्षिस्वस्तिमङ्गलविधानं परिपुष्पाञ्जलिं क्षिपेत्

*****

Note

Jinvani.in मे दिए गए सभी स्तोत्र, पुजाये और आरती जिनवाणी संग्रह के द्वारा लिखी गई है, यदि आप किसी प्रकार की त्रुटि या सुझाव देना चाहते है तो हमे Comment कर बता सकते है या फिर Swarn1508@gmail.com पर eMail के जरिए भी बता सकते है।

LEAVE A REPLY

Please enter your comment!
Please enter your name here